|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.47. अध्यायः 047
Mahabharata - Virata Parva - Chapter Topics
द्रोणवचनादर्जुनस्यार्जुनत्वावधारणेन विषादात्तूष्णींभूतेषु स्वीयेषु दुर्योधनेन द्रोणानादरपूर्वकं तान्प्रति समरप्रोत्साहनम् ॥ 1॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-47-0x(3203)(30362)
ततो दुर्योधनो राजा समरे भीष्ममब्रवीत्।
द्रोणं च रथिशार्दूलं कृपं च सुमहाबलम् ॥ 4-47-1(30363)
उक्तोऽयमर्थ आचार्य मया कर्णेन चासकृत्।
पुनरेव च वक्ष्यामि न हि तृप्यामि तद्ब्रुवन् ॥ 4-47-2(30364)
पराजितैर्विवस्तव्यं तैश्च द्वादशवत्सरान् ।
वने जनपदेऽज्ञातैरेष एव पणो हि नः ॥ 4-47-3(30365)
तेषां न तावन्निर्वृत्तो वत्सरः स त्रयोदशः ।
अज्ञातवासे बीभत्सुरथास्माभिः परिश्रुतः॥ 4-47-4(30366)
अनिर्वृत्ते तु निर्वासे यदि बीभत्सुरागतः ।
पुनर्द्वादशवर्षाणि वने वत्स्यन्ति पाण्डवाः ॥ 4-47-5(30367)
लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत्।
हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति॥ 4-47-6(30368)
अर्थानां हि पुनर्द्वैधे नित्यं भवति संशयः ।
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा ॥ 4-47-7(30369)
उत्तरं मार्गमाणानां मात्स्यसेनां युयुत्सताम् ।
यदि बीभत्सुरायातः किंतु कृत्यमतः परम् ॥ 4-47-8(30370)
त्रिगर्तानां कृतं कार्यं पाण्डवानां च मार्गणम् ।
विप्रकारैर्हि मात्स्येन सुशर्मा बाधित पुरा ॥ 4-47-9(30371)
तेषां भयाभिपन्नानां वस्तानां त्राणभिच्छताम् ।
अभयं याचमानानां तदाऽस्माभिः परिश्रुतम् ॥ 4-47-10(30372)
प्रथमं वैर्ग्रहीतव्यं मात्स्यानां गोधनं महत्।
अष्टम्याश्चापराह्णे तु इति नस्तैः समाहितम् ॥ 4-47-11(30373)
नवम्यां पुनरस्माभिः सूर्यस्योदयनं प्रति।
इमा गावो ग्रहीतव्या याते मत्स्ये गवांपदम् ॥ 4-47-12(30374)
इत्येवं निश्चयोऽस्माकं मन्त्रोऽभून्नागसाह्वये ।
पाण्डवानां परिज्ञाने सर्वेषां नः परस्परम् ॥ 4-47-13(30375)
ते वा गाश्च नयिष्यन्ति यदि वा स्युः पराजिताः।
अस्मान्वाऽप्यतिसन्धाय कुर्युर्मात्स्येन संगतिम् ॥ 4-47-14(30376)
अथवा तानुपादाय मात्स्यो जानपदैः सह ।
सर्वथा सेनया सार्धमस्मानेष युयुत्सति ॥ 4-47-15(30377)
तेषामेको महावीर्यः कश्चिदेव पुनःसरः।
अस्माञ्जेतुमिहायातो मात्स्यो वाऽपि स्वयं भवेत् ॥ 4-47-16(30378)
यद्येष राजा मात्स्यानां यदि बीभत्सुरागतः ।
सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः ॥ 4-47-17(30379)
अथ कस्मात्थिता ह्येते रथेषु रथिसत्तमाः ।
भीष्मद्रोणकृपाः कर्णो विकर्णो द्रौणिरेव च।
संभ्रान्तमनसः सर्वे प्राप्ते ह्यस्मिन्धनञ्जये ॥ 4-47-18(30380)
नान्यत्र युद्धाच्छ्रेयोस्ति तथाऽऽत्मा प्रणिधीयताम् ।
सर्वलोकेन वा युद्धं देवैर्वाऽस्तु सवासवैः ॥ 4-47-19(30381)
अनाच्छिन्ने धनेऽस्माकमथ शक्रेण वज्रिणा।
यमेन वाऽपि संग्रामे को हास्तिनपुरं व्रजेत् ॥ 4-47-20(30382)
शरैरभिप्रणुन्नानां भग्नानां गहने वने ।
को हि जीवेत्पदातीनां भवेदश्वेषु संशयः ॥ 4-47-21(30383)
आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् ।
जानामि च मतं तेषामतस्त्रासयतीव नः॥ 4-47-22(30384)
अर्जुने चापि संप्रीतिमधिकामुपलक्षये ।
तथा दृष्ट्वा हि बीभत्सुमुपायान्तं प्रशंसति ।
यथा सेना न भज्येत तथा नीतिर्विधीयताम् ॥ 4-47-23(30385)
अदेशिका ह्यरण्येऽस्मिन्कृच्छ्रे शत्रुवशं गता।
यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम् ॥ 4-47-24(30386)
अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे ।
स्थाने वाऽपि व्रजन्तो वा सदा हेषन्ति वाजिनः ॥ 4-47-25(30387)
सदा च वायवो वान्ति नित्यं वर्षति वासवः ।
स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा ॥ 4-47-26(30388)
भीषयन्पाण्डवेयेभ्यो भवान्सर्वानिमाञ्जनान्।
प्रमुखे सर्वसैन्यानामबद्धं बहु भाषते ॥ 4-47-27(30389)
यथैवाश्वान्मार्गमाणास्तानेवाभिपरीप्सवः ।
हेषितानीव शृण्वन्ति तदिदं भवतस्तथा ॥ 4-47-28(30390)
किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते।
अन्यत्र कामाद्द्वेषाद्वा रोषाद्वाऽस्मासु केवलम् ॥ 4-47-29(30391)
आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः ।
नैते महाहवे घोरे संप्रष्टव्याः कथंचन ॥ 4-47-30(30392)
प्रासादेषु विचित्रेषु गोष्ठीपानाशनेषु च।
कथा विचित्राः कुर्वाणाः पण्डितास्तत्र सोभनः ॥ 4-47-31(30393)
बहून्याश्चर्यरूपाणि कुर्वते जनसंसदि ।
इष्वस्त्रे चापसंधाने पण्डितास्तत्र शोभनाः ॥ 4-47-32(30394)
परेषां विवरज्ञाने मनुष्याचरितेषु च।
अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः ॥ 4-47-33(30395)
पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः ।
विधीयतां तथा नीतिर्यथा वध्येत वै परः ॥ 4-47-34(30396)
गावश्चैताः प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम्।
आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परैः ॥ ॥ 4-47-35(30397)
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-47-11 सप्तम्याश्चापराह्णे त्विति नवम्यां पुनरस्माभिरिति च थo पाठः ॥ ॥ सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|